Correct option is D
भुङ्क्ते (अभ्यवहारे - II): “भुजोऽनवने” सूत्रेण भुज पालनाभ्यवहारयोः इति रुधादौ पठ्यते। तस्मादनवनेऽपालने वर्तमानादात्मनेपदं भवित। भुङ्क्ते, भुञ्जाते, भुञ्जते। भुङ्क्ते (भु) धातुः "भोजनं" अथवा "उपभोगं" दर्शयति।
भुनक्ति (पालनार्थे - III): भुनक्ति इत्यस्य पालनार्थक प्रयोगः अस्ति।
सम्प्रवदन्ते (व्यक्तवाचां समुच्चारणे - I): “व्यक्तवाचां समुच्चारणे” सूत्रेण वद इति वर्तते। व्यक्तवाचां समुच्चारणं सहोच्चारणम्, तत्र वर्तमानाद् वदतेरात्मनेपदं भवति।मनुष्याणां संभूयोच्चारणे वदेरात्मनेपदं स्यात्। संप्रवदन्ते ब्राह्मणाः। नेह। संप्रवदन्ति खगाः॥ सम्प्रवदन्ते इत्यस्य स्पष्ट भाषणम् अथवा "व्यक्तवाचां" अर्थे प्रयोगः।
सम्प्रवदन्ति (अव्यक्तवाचां समुच्चारणे - IV): सम्प्रवदन्ति इत्यस्य अस्पष्ट वा गूढ भाषण सूचयति।